वांछित मन्त्र चुनें

नरा॒शंसो॑ नोऽवतु प्रया॒जे शं नो॑ अस्त्वनुया॒जो हवे॑षु । क्षि॒पदश॑स्ति॒मप॑ दुर्म॒तिं ह॒न्नथा॑ कर॒द्यज॑मानाय॒ शं योः ॥

अंग्रेज़ी लिप्यंतरण

narāśaṁso no vatu prayāje śaṁ no astv anuyājo haveṣu | kṣipad aśastim apa durmatiṁ hann athā karad yajamānāya śaṁ yoḥ ||

पद पाठ

नरा॒शंसः॑ । नः॒ । अ॒व॒तु॒ । प्र॒ऽया॒जे । शम् । नः॒ । अ॒स्तु॒ । अ॒नु॒ऽया॒जः । हवे॑षु । क्षि॒पत् । अश॑स्तिम् । अप॑ । दुः॒ऽम॒तिम् । ह॒न् । अथ॑ । क॒र॒त् । यज॑मानाय । शम् । योः ॥ १०.१८२.२

ऋग्वेद » मण्डल:10» सूक्त:182» मन्त्र:2 | अष्टक:8» अध्याय:8» वर्ग:40» मन्त्र:2 | मण्डल:10» अनुवाक:12» मन्त्र:2


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (नराशंसः) मनुष्यों द्वारा-प्रशंसनीय स्तुति करने योग्य परमात्मा (नः) हमारी (प्रयाजे) रेतःसेचन कार्य में-गर्भाधान कार्य में (अवतु) रक्षा करे (नः शम् अस्तु) हमारे लिए कल्याणकारी हो (अनुयाजः) रेतोधारण-गर्भ का पोषण (क्षिपत्०) पूर्ववत् ॥२॥
भावार्थभाषाः - स्तुतियोग्य परमेश्वर गृहस्थों के गर्भाधान कार्य में कल्याणकारी हो तथा उसकी कृपा से गर्भपोषण भी कल्याणकारी हो ॥२॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (नराशंसः) नरैः शस्यमानः स्तूयमानः “यो नरैः-अभितः शंस्यते स्तूयते” [ऋ० १।३६।६ दयानन्दः] परमेश्वरः (नः प्रयाजे-अवतु) अस्मान् रेतःसेचने-“रेतः सिच्यं हि प्रयाजाः” [कौ० १०।३] रक्षतु (शं नः-अस्तु-अनुयाजः) कल्याणकारी-अस्माकं रेतोधारणम् “रेतो धेयम्-अनुयाजः” [कौ० १०।३] (हवेषु) गृहे परस्परह्वानेषु (क्षिपत्०) अग्रे पूर्ववत् ॥२॥